|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.49. अध्यायः 049
Mahabharata - Shalya Parva - Chapter Topics
बलरामस्य बदरपाचनतीर्थगमनम्॥ 1 ॥ श्रुतावत्यरुन्धत्योर्महिमानुवर्णनम्॥ 2 ॥

Mahabharata - Shalya Parva - Chapter Text
वैशम्पायन उवाच। 9-49-0x(5203)(62994)
ततस्तीर्थवरं रामो ययौ बदरपाचनाम्।
तपस्विसिद्धचरितं यत्र कन्या धृतव्रता॥ 9-49-1(62995)
भरद्वाजस्य दुहिता रुपेणाप्रतिमा भुवि।
श्रुतावती नाम विभो कुमारी ब्रह्मचारिणी॥ 9-49-2(62996)
तपश्चचार सात्युग्रं नियमैर्बहुभिर्वृता।
भर्ता मे देवराजः स्यादिति निश्चित्य भामिनी॥ 9-49-3(62997)
समास्तस्या व्यतिक्रान्ता बह्व्यः कुरुकुलोद्वह।
चरन्त्या नियमांस्तांस्तांस्त्रीभिस्तीव्रान्सुदुश्चरान्॥ 9-49-4(62998)
तस्यास्तु तेन वृत्तेन तपसा च विशाम्पते।
भक्त्या च भगवान्प्रीतः परया पाकशासनः॥ 9-49-5(62999)
आजगामाश्रमं तस्यास्त्रिदशाधिपतिः प्रभुः।
आस्थाय रूपं विप्रर्षेर्वसिष्ठस्य महात्मनः॥ 9-49-6(63000)
सा तं दृष्ट्वोग्रतपसं वसिष्ठं तपतां वरम्।
आचारैर्मुनिभिर्दृष्टैः पूजयामास भारत॥ 9-49-7(63001)
उवाच नियमज्ञा च कल्याणी सा प्रियंवदा।
भगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो॥ 9-49-8(63002)
सर्वमद्य यथाशक्ति तव दास्यामि सुव्रत।
शक्त्रभक्त्या च ते पाणिं न दास्यामि कथञ्चन॥ 9-49-9(63003)
व्रतैश्च नियमैश्चैव तपसा च तपोधन।
शक्रस्तोषयितव्यो वै मया त्रिभुवनेश्वरः॥ 9-49-10(63004)
इत्युक्तो भगवान्देवः स्मयन्निव निरीक्ष्य ताम्।
उवाच नियमं ज्ञात्वा सांत्वयन्निव भारत॥ 9-49-11(63005)
उग्रं तपश्चरसि वै विदिता मेऽसि सुव्रते।
यदर्थमयमारम्भस्तव कल्याणि हृद्गतः॥ 9-49-12(63006)
तच्च सर्वं यथाभूतं भविष्यति वरानने।
तपसा लभ्यते सर्वं यथाभूतं भविष्यति॥ 9-49-13(63007)
यथा स्थानानि दिव्यानि विबुधानां शुभानने।
तपसा तानि प्राप्याणि तपोमूलं महात्सुखम्॥ 9-49-14(63008)
इति कृत्वा तपो घोरं देहं सन्न्यस्य मानवाः।
देवत्वं यान्ति कल्याणि शृणुष्वैकं वचो मम॥ 9-49-15(63009)
प़ञ्च चैतानि सुभगे बदराणि शुभव्रते।
पचेत्युक्त्वा तु भगवाञ्जगाम बलसूदनः॥ 9-49-16(63010)
आमन्त्र्य तां तु कल्याणीं ततो जप्यं जजाप सः।
अविदूरे ततस्तस्मादाश्रमात्तीर्थमुत्तमम्॥ 9-49-17(63011)
तच्च तीर्थं महाराज यत्र जप्यं जजाप सः।
इन्द्रतीर्थेतिविख्यातं त्रिषु लोकेषु मानद॥ 9-49-18(63012)
तस्य जिज्ञासनार्थं स भगवान्पाकशासनः।
बदराणामपचनं चकार विबुधाधिपः॥ 9-49-19(63013)
ततः प्रतप्ता सा राजन्वाग्यता विगतक्लमा।
तत्परा शुचिसंवीता पावके समधिश्रयत्।
अपचद्राजशार्दूल बदराणि महाव्रता॥ 9-49-20(63014)
तस्याः पचन्त्याः सुमहान्कालोऽगात्पुरुषर्षभ।
न च स्म तान्यपच्यन्त दिनं च क्षयमभ्यगात्॥ 9-49-21(63015)
हुताशनेन दग्धश्च यस्तस्याः काष्ठसञ्चयः।
अकाष्ठमग्निं सा दृष्ट्वा स्वशरीरमथादहत्॥ 9-49-22(63016)
पादौ प्रक्षिप्य सा पूर्वं पावके चारुदर्शना।
दग्धौ दग्धौ पुनः पादावुपावर्तयतानघ॥ 9-49-23(63017)
चरणे दह्यमाने च नाचिन्तयदनिन्दिता।
दुःखं कमलपत्राक्षी महर्षिप्रियकाम्यया॥ 9-49-24(63018)
न वैमनस्यं तस्यास्तु मुखभेदोऽथवाऽभवत्।
शरीरमग्निना दीप्य जलमध्ये यथा स्थिता॥ 9-49-25(63019)
तच्चास्याः पचने यत्नं न न्यवर्तत भारत।
सर्वथा बदराण्येव पक्तव्यानीति कन्यका॥ 9-49-26(63020)
सा तन्मनसि कृत्वैव महर्षेर्वचनं शुभा।
अपचद्बदराण्येव न चापच्यन्त भारत॥ 9-49-27(63021)
तस्यास्तु चरणौ वह्निर्ददाह भगवान्स्वयम्।
न च तस्या मनोदुःखं स्वल्पमप्यभवत्तदा॥ 9-49-28(63022)
अथ तत्कर्म दृष्ट्वाऽस्याः प्रीतस्त्रिभुवनेश्वरः।
ततः सन्दर्शयामास कन्यायै रूपमात्मनः॥ 9-49-29(63023)
उवाच च सुरश्रेष्ठस्तां कन्यां सुदृढव्रताम्।
प्रीतोऽस्मि ते शुभे भक्त्या तपसा नियमेन च॥ 9-49-30(63024)
तस्माद्योऽभिमतः कामः स ते सम्पत्स्यते शुभे।
देहं त्यक्त्वा महाभागे त्रिदिवे मयि वत्स्यसि॥ 9-49-31(63025)
इदं च ते तीर्थवरं स्थिरं लोके भविष्यति।
सर्वपापापहं सुभ्रु नाम्ना बदरपाचनम्।
विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिरभिप्लुतम्॥ 9-49-32(63026)
अस्मिन्खलु महाभागे शुभे तीर्थवरेऽनघे।
त्यक्त्वा सप्तर्षयो जग्मुर्हिमवन्तमरुन्धतीम्॥ 9-49-33(63027)
ततस्ते वै महाभागा गत्वा तत्र सुसंशिताः।
वृत्त्यर्थं फलमूलानि समाहर्तुं ययुः किल॥ 9-49-34(63028)
तेषां वृत्त्यर्थिनां तत्र वसतां हिमवद्वने।
अनावृष्टिरनुप्राप्ता तदा द्वादशवार्षिकी॥ 9-49-35(63029)
ते कृत्वा चाश्रमं तत्र न्यवसन्त तपस्विनः।
अरुन्धत्यपि कल्याणी तपोनित्याऽभवत्तदा॥ 9-49-36(63030)
अरुन्धतीं ततो दृष्ट्वा तीव्रं नियममास्थिताम्।
अथागमत्त्रिनयनः सुप्रीतो वरदस्तदा॥ 9-49-37(63031)
ब्राह्मं रूपं ततः कृत्वा महादेवो महायशाः।
तामभ्येत्याब्रवीद्देवो भिक्षामिच्छाम्यहं शुभे॥ 9-49-38(63032)
प्रत्युवाच ततः सा तं ब्राह्मणं चारुदर्शना।
क्षीणोऽन्नसञ्चयो विप्र बदराणीह भक्षय॥ 9-49-39(63033)
ततोऽब्रवीन्महादेवः पचस्वैतानि सुव्रते।
इत्युक्ता साऽपचत्तानि ब्राह्मणप्रियकाम्यया।
अधिश्रित्य समिद्धेऽग्नौ बदराणि यशस्विनी॥ 9-49-40(63034)
दिव्या मनोरमाः पुण्याः कथाः शुश्राव सा तदा।
अतीता सा त्वनावृष्टिर्घोरा द्वादशवार्षिकी॥ 9-49-41(63035)
अनश्नन्त्याः पचन्त्याश्च शृण्वन्त्याश्च कथाः शुभाः।
दिनोपमः स तस्याथ कालोऽतीतः सुदारुणः॥ 9-49-42(63036)
ततस्तु मुनयः प्राप्ताः फलान्यादाय पर्वतात्।
ततः स भगवान्प्रीतः प्रोवाचारुन्धतीं ततः॥ 9-49-43(63037)
उपसर्पस्व धर्मज्ञे यथापूर्वमिमानृषीन्।
प्रीतोऽस्मि तव धर्मज्ञे तपसा नियमेन च॥ 9-49-44(63038)
ततः सन्दर्शयामास स्वरूपं भगवान्हरः।
ततोऽब्रवीत्तदा तेभ्यस्तस्याश्च चरितं महत्॥ 9-49-45(63039)
भवद्भिर्हिमवत्पृष्ठे यत्तपः समुपार्जितम्।
अस्यास्च यत्तपो विप्रा न समं तन्मतं मम॥ 9-49-46(63040)
अनया हि तपस्विन्या तपस्तप्तं सुदुश्चरम्।
अनश्नन्त्या पचन्त्या च समा द्वादश पारिताः॥ 9-49-47(63041)
ततः प्रोवाच भगवांस्तामेवारुन्धतीं पुनः।
वरं वृणीष्व कल्याणि यत्तेऽभिलषितं हृदि॥ 9-49-48(63042)
साऽब्रवीत्पृथुताम्राक्षी देवं सप्तर्षिसंसदि।
भगवान्यदि मे प्रीतस्तीर्थं स्यादिदमद्भुतम्॥ 9-49-49(63043)
सिद्धदेवर्षिदयितं नाम्ना बदरपाचनम्।
तथाऽस्मिन्देवदेवेश त्रिरात्रमुषितः शुचिः॥ 9-49-50(63044)
प्राप्नुयादुपवासेन फलं द्वादशवार्षिकम्।
एवमस्त्विति तां देवः प्रत्युवाच तपस्विनीम्॥ 9-49-51(63045)
सप्तर्षिभिः स्तुतो देवस्ततो लोकं ययौ तदा।
ऋषयो विस्मयं जग्मुस्तां दृष्ट्वा चाप्यरुन्धतीम्।
अश्रान्तां चाविवर्णां च क्षुत्पिपासाऽसमायुताम्॥ 9-49-52(63046)
एवं सिद्धिः परा प्राप्ता अरुन्धत्या विशुद्धया।
यथा त्वया महाभागे मदर्थे संशितव्रते॥ 9-49-53(63047)
विशेषो हि त्वया भद्रे व्रते ह्यस्मिन्समर्पितः।
तथा चेदं ददाम्यद्य नियमेन सुतोषितः।
विशेषं तव कल्याणि प्रयच्छामि वरं वरे॥ 9-49-54(63048)
अरुन्धत्या वरस्तस्या यो दत्तो वै महात्मना।
तस्य चाहं प्रभावेन तव कल्याणि तेजसा।
प्रवक्ष्यामि परं भूयो वरमत्र यथाविधि॥ 9-49-55(63049)
यस्त्वेकां रजनीं तीर्थे वत्स्यते सुसमाहितः।
सस्नात्वा प्राप्स्यते लोकान्देहन्यासात्सुदुर्लभान्॥ 9-49-56(63050)
इत्युक्त्वा भगवान्देवः सहस्राक्षः प्रतापवान्।
श्रुतावतीं ततः पुण्यां जगाम त्रिदिवं पुनः॥ 9-49-57(63051)
गते वज्रधरे राजंस्तत्र वर्षं पपात ह।
पुष्पाणां भरतश्रेष्ठ दिव्यानां पुण्यगन्धिनाम्॥ 9-49-58(63052)
दवदुन्दुभयश्चापि नेदुस्तत्र महास्वनाः।
मारुतश्च ववौ पुण्यः पुण्यगन्धो विशाम्पते॥ 9-49-59(63053)
उत्सृज्य तु शुभा देहं जगामास्य च भार्यताम्।
तपसोग्रेण तं लब्ध्वा तेन रेमे सहाच्युत॥ 9-49-60(63054)
जनमेजय उवाच। 9-49-61x(5204)
का तस्या भगवन्माता क्व संवृद्धा च शोभना।
श्रोतुमिच्छाम्यहं विप्र परं कौतूहलं हि मे॥ 9-49-61(63055)
वैशम्पायन उवाच। 9-49-62x(5205)
भरद्वाजस्य विप्रर्षेः स्कन्नं रेतो महात्मनः।
दृष्ट्वाऽप्सरसमायान्ती घृताचीं पृथलोचनाम्॥ 9-49-62(63056)
स तु जग्राह तद्रेतः करेण जपतां वरः।
तदाऽपतत्पर्णपुटे तत्र सा सम्भवत्सुता॥ 9-49-63(63057)
तस्यास्तु जातकर्मादि कृत्वा सर्वं तपोधनः।
नाम चास्याः स कृतवान्भरद्वाजो महामुनिः॥ 9-49-64(63058)
श्रुतावतीति धर्मात्मा देवर्षिगणसंसदि।
स्वे च तामाश्रमे न्यस्य जगाम हिमवद्वनम्॥ 9-49-65(63059)
तत्राप्युपस्पृश्य महानुभावो
वसूनि दत्त्वा च महाद्विजेभ्यः।
जगाम तीर्थं सुसमाहितात्मा
शक्रस्य वृष्णिप्रवरस्तदानीम्॥ ॥ 9-49-66(63060)
इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकोनपञ्चाशोऽध्यायः॥ 49 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-49-23 उपावर्तयत अग्रेऽग्रे प्रसारितवती॥ 9-49-26 तच्चास्या वचनं नित्यमवर्तद्वृदि भारत इति झ.पाठः॥ 9-49-49 एकोनपञ्चाशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|